श्री गणेश सहस्रनाम स्तोत्रं

श्री गणेश सहस्रनाम स्तोत्रं

|| श्री गणेश सहस्रनाम स्तोत्रं ||


मुनिरुवाच

कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् |
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर || 1 ||

ब्रह्मोवाच

देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे |
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल || 2 ||

मनसा स विनिर्धार्य ददृशे विघ्नकारणम् |
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि || 3 ||

विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् |
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् || 4 ||

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् |
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् || 5 ||

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य |
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि |
हुमिति बीजम्, तुङ्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् |
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः |

अथ करन्यासः

गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः |
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ||
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः |
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः |
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ||

अथ अङ्गन्यासः

छन्दश्छन्दोद्भव इति हृदयाय नमः |
निष्कलो निर्मल इति शिरसे स्वाहा |
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् |
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् |
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् |
अनन्तशक्तिसहित इत्यस्त्राय फट् |
भूर्भुवः स्वरोम् इति दिग्बन्धः |

अथ ध्यानम्

गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् |
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ||

श्रीगणपतिरुवाच

ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः |
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः || 1 ||

लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः |
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः || 2 ||

भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः |
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः || 3 ||

नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः |
विनायको विरूपाक्षो वीरः शूरवरप्रदः || 4 ||

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः |
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः || 5 ||

कुमारगुरुरीशानपुत्रो मूषकवाहनः |
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः || 6 ||

अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः |
कटङ्कटो राजपुत्रः शाकलः संमितोमितः || 7 ||

कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः |
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः || 8 ||

विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः |
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः || 9 ||

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः |
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः || 10 ||

कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् |
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः || 11 ||

किरीटी कुण्डली हारी वनमाली मनोमयः |
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः || 12 ||

सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् |
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः || 13 ||

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः |
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः || 14 ||

चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः |
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः || 15 ||

गणाधिराजो विजयः स्थिरो गजपतिध्वजी |
देवदेवः स्मरः प्राणदीपको वायुकीलकः || 16 ||

विपश्चिद्वरदो नादो नादभिन्नमहाचलः |
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः || 17 ||

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः |
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः || 18 ||

शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः |
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः || 19 ||

यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः |
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः || 20 ||

ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः |
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् || 21 ||

गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः |
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः || 22 ||

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः |
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः || 23 ||

नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः |
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः || 24 ||

कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः |
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः || 25 ||

पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः |
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः || 26 ||

हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः |
सद्भक्तध्याननिगडः पूजावारिनिवारितः || 27 ||

प्रतापी काश्यपो मन्ता गणको विष्टपी बली |
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः || 28 ||

चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः |
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः || 29 ||

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः |
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः || 30 ||

सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः |
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः || 31 ||

सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः |
लिपिपद्मासनाधारो वह्निधामत्रयालयः || 32 ||

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः |
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः || 33 ||

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः |
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः || 34 ||

भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः |
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः || 35 ||

स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः |
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् || 36 ||

सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः |
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः || 37 ||

रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः |
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः || 38 ||

श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः |
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः || 39 ||

सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः |
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः || 40 ||

सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् |
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः || 41 ||

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः |
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः || 42 ||

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् |
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् || 43 ||

कल्पवल्लीधरो विश्वाभयदैककरो वशी |
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः || 44 ||

पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः |
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् || 45 ||

पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः |
भारतीसुन्दरीनाथो विनायकरतिप्रियः || 46 ||

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः |
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः || 47 ||

महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः |
आमोदमोदजननः सप्रमोदप्रमोदनः || 48 ||

संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः |
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः || 49 ||

मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः |
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः || 50 ||

विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः |
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् || 51 ||

मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः |
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः || 52 ||

वसुधारामदोन्नादो महाशङ्खनिधिप्रियः |
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः || 53 ||

सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः |
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः || 54 ||

प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् |
ऐरावतादिसर्वाशावारणो वारणप्रियः || 55 ||

वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः |
जयाजयपरिकरो विजयाविजयावहः || 56 ||

अजयार्चितपादाब्जो नित्यानन्दवनस्थितः |
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः || 57 ||

अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः |
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः || 58 ||

सुभगासंश्रितपदो ललिताललिताश्रयः |
कामिनीपालनः कामकामिनीकेलिलालितः || 59 ||

सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः |
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः || 60 ||

नलिनीकामुको वामारामो ज्येष्ठामनोरमः |
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः || 61 ||

विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः |
अमृताब्धिकृतावासो मदघूर्णितलोचनः || 62 ||

उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः |
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः || 63 ||

अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः |
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः || 64 ||

अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः |
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः || 65 ||

अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः |
आधारपीठमाधार आधाराधेयवर्जितः || 66 ||

आखुकेतन आशापूरक आखुमहारथः |
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः || 67 ||

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः |
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः || 68 ||

इन्दीवरदलश्याम इन्दुमण्डलमण्डितः |
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः || 69 ||

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः |
ईशानमौलिरीशान ईशानप्रिय ईतिहा || 70 ||

ईषणात्रयकल्पान्त ईहामात्रविवर्जितः |
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः || 71 ||

उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः |
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः || 72 ||

ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः |
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः || 73 ||

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् |
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः || 74 ||

एकारपीठमध्यस्थ एकपादकृतासनः |
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः || 75 ||

ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः |
ऐरंमदसमोन्मेष ऐरावतसमाननः || 76 ||

ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः |
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः || 77 ||

अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः |
अः समस्तविसर्गान्तपदेषु परिकीर्तितः || 78 ||

कमण्डलुधरः कल्पः कपर्दी कलभाननः |
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः || 79 ||

कदम्बगोलकाकारः कूष्माण्डगणनायकः |
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् || 80 ||

खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः |
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः || 81 ||

गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः |
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः || 82 ||

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः |
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः || 83 ||

घण्टाघर्घरिकामाली घटकुम्भो घटोदरः |
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् || 84 ||

चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः |
चराचरपिता चिन्तामणिश्चर्वणलालसः || 85 ||

छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः |
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः || 86 ||

जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः |
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः || 87 ||

टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः |
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः || 88 ||

डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः |
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः || 89 ||

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः |
तारकान्तरसंस्थानस्तारकस्तारकान्तकः || 90 ||

स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् |
दक्षयज्ञप्रमथनो दाता दानं दमो दया || 91 ||

दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः |
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः || 92 ||

दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः |
धनं धनपतेर्बन्धुर्धनदो धरणीधरः || 93 ||

ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः |
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः || 94 ||

नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः |
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः || 95 ||

परं व्योम परं धाम परमात्मा परं पदम् || 96 ||

परात्परः पशुपतिः पशुपाशविमोचनः |
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः || 97 ||

पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः |
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः || 98 ||

फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः |
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली |
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः || 99 ||

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः |
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः || 100 ||

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः |
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः || 101 ||

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः |
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः || 102 ||

मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः |
महाबलो महावीर्यो महाप्राणो महामनाः || 103 ||

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः |
यशस्करो योगगम्यो याज्ञिको याजकप्रियः || 104 ||

रसो रसप्रियो रस्यो रञ्जको रावणार्चितः |
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः || 105 ||

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः |
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः || 106 ||

वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः |
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः || 107 ||

वामदेवो विश्वनेता वज्रिवज्रनिवारणः |
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः || 108 ||

शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः |
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः || 109 ||

षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः |
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् || 110 ||

सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः |
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः || 111 ||

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः |
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी || 112 ||

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् |
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः || 113 ||

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः |
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः || 114 ||

धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः |
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः || 115 ||

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः |
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः || 116 ||

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः |
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः || 117 ||

पराभिचारशमनो दुःखहा बन्धमोक्षदः |
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः || 118 ||

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् |
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः || 119 ||

राशिस्तारा तिथिर्योगो वारः करणमंशकम् |
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः || 120 ||

राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः |
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् || 121 ||

भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् |
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः || 122 ||

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः |
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः || 123 ||

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः |
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः || 124 ||

वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः |
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् || 125 ||

वैखानसं भागवतं मानुषं पाञ्चरात्रकम् |
शैवं पाशुपतं कालामुखम्भैरवशासनम् || 126 ||

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता |
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् || 127 ||

बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् |
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ||

ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः |
एक एकाक्षराधार एकाक्षरपरायणः || 129 ||

एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् |
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः || 130 ||

द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः |
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः || 131 ||

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः |
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः || 132 ||

चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः |
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ||

चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ||
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः || 134 ||

पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः |
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः || 135 ||

पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः |
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः || 136 ||

षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः |
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः || 137 ||

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः |
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः || 138 ||

षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः |
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः || 139 ||

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः |
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः || 140 ||

सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः |
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः || 141 ||

सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः |
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् || 142 ||

अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः |
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः || 143 ||

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः |
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् || 144 ||

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः |
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः |
नवनागासनाध्यासी नवनिध्यनुशासितः || 145 ||

नवद्वारपुरावृत्तो नवद्वारनिकेतनः |
नवनाथमहानाथो नवनागविभूषितः || 146 ||

नवनारायणस्तुल्यो नवदुर्गानिषेवितः |
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः || 147 ||

दशात्मको दशभुजो दशदिक्पतिवन्दितः |
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः || 148 ||

दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः |
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः || 149 ||

द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः |
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् || 150 ||

चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः |
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः || 151 ||

सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः |
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः || 152 ||

षोडशाधारनिलयः षोडशस्वरमातृकः |
षोडशान्तपदावासः षोडशेन्दुकलात्मकः || 153 ||

कलासप्तदशी सप्तदशसप्तदशाक्षरः |
अष्टादशद्वीपपतिरष्टादशपुराणकृत् || 154 ||

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः |
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः || 155 ||

अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् |
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः || 156 ||

चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः |
सप्तविंशतितारेशः सप्तविंशतियोगकृत् || 157 ||

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः |
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः || 158 ||

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः |
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः |
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः || 159 ||

चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः |
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः || 160 ||

चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः |
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः || 161 ||

चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः |
शतानन्दः शतधृतिः शतपत्रायतेक्षणः || 162 ||

शतानीकः शतमखः शतधारावरायुधः |
सहस्रपत्रनिलयः सहस्रफणिभूषणः || 163 ||

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् |
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः || 164 ||

दशसाहस्रफणिभृत्फणिराजकृतासनः |
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः || 165 ||

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः |
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः || 166 ||

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः |
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः || 167 ||

शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः |
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः || 168 ||

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः |
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः || 169 ||

अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः |
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः || 170 ||

इति वैनायकं नाम्नां सहस्रमिदमीरितम् |
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः || 171 ||

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् |
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः || 172 ||

मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता |
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता || 173 ||

जगत्संवननं विश्वसंवादो वेदपाटवम् |
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् || 174 ||

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता |
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा || 175 ||

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् |
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते || 176 ||

राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः |
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते || 177 ||

धर्मार्थकाममोक्षाणामनायासेन साधनम् |
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् || 178 ||

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् |
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् || 179 ||

दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् |
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् || 180 ||

परकृत्यप्रशमनं परचक्रप्रमर्दनम् |
सङ्ग्राममार्गे सवेषामिदमेकं जयावहम् || 181 ||

सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् |
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् || 182 ||

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च |
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः || 183 ||

क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः |
गुल्मं प्लीहानमशमानमतिसारं महोदरम् || 184 ||

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् |
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् || 185 ||

वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् |
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् || 186 ||

इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् |
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः || 187 ||

प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि |
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये || 188 ||

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् |
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् || 189 ||

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः |
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु || 190 ||

कामरूपः कामगतिः कामदः कामदेश्वरः |
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः || 191 ||

गणेशानुचरो भूत्वा गणो गणपतिप्रियः |
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः || 192 ||

शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः |
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः || 193 ||

जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते |
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः || 194 ||

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः |
निरन्तरे निराबाधे परमानन्दसंज्ञिते || 195 ||

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते |
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते || 196 ||

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये//एन्नरः |
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् || 197 ||

तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः |
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम || 198 ||

नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि |
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् || 199 ||

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः |
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः || 200 ||

भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् |
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् || 201 ||

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् |
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् || 202 ||

स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः |
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः || 203 ||

लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् |
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् || 204 ||

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च |
न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः || 205 ||

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहम्प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः |
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः || 206 ||

अकिञ्चनोप्येकचित्तो नियतो नियतासनः |
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः || 207 ||

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि |
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी || 208 ||

आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या |
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त -
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् || 209 ||

गणञ्जयो गणपतिर्हेरम्बो धरणीधरः |
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः || 210 ||

अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः |
सुमङ्गलो बीजमाशापूरको वरदः कलः || 211 ||

काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः |
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् || 212 ||

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति |
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये || 213 ||

यः स्तौति मद्गतमना ममाराधनतत्परः |
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः || 214 ||

नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने |
नमो नमो विपुलदयैकसिद्धये
नमो नमः करिकलभाननाय ते || 215 ||

किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः |
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना || 216 ||

|| इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ||