श्री केतु कवचं

श्री केतु कवचं

|| श्री केतु कवचं ||

ध्यानं
केतुं करालवदनं चित्रवर्णं किरीटिनम् |
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् || 1 ||

| अथ केतु कवचम् |

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः |
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः || 2 ||

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः |
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः || 3 ||

हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः |
सिंहासनः कटिं पातु मध्यं पातु महासुरः || 4 ||

ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः |
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः || 5 ||

फलश्रुतिः

य इदं कवचं दिव्यं सर्वरोगविनाशनम् |
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् || 6 ||

|| इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ||